॥धन्योऽहम्॥
पठामि संस्कृतं नित्यं
ध्यायामि प्रणवं दिव्यं ।
जपामि निर्मलं चित्तं
पिबामि परमामृतम्॥
धन्योऽहं कृतकृत्योऽहं
लब्ध्वा दुर्लभं देहम् ।
ईशेन दत्तं मुमुक्षुत्वं
किमस्मात् बहुतरं दानम् ॥
- Posted in: नमामि संस्कृतम् ♦ मङ्गलश्लोकाः ♦ संस्कृतभारती